|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.27. अध्यायः 027
Mahabharata - Adi Parva - Chapter Topics
गरुडस्य विनतां प्रति दास्यकारणप्रश्नः॥ 1 ॥ सर्पैः दास्यमोचनोपायकथनम्॥ 2 ॥

Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-27-0x(104)(1396)
संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1(1397)
तं द्वीपं मकरावासं विहितं विश्वकर्मणा।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2(1398)
सुपर्णसहिताः सर्पाः काननं च मनोरमम्।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिजादितम्॥ 1-27-3(1399)
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4(1400)
प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम्।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5(1401)
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6(1402)
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7(1403)
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।
मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8(1404)
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9(1405)
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10(1406)
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11(1407)
सौतिरुवाच। 1-27-12x(105)
स विचिन्त्याब्रवीत्पक्षी मातरं विनतो तदा।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12(1408)
विनतोवाच। 1-27-13x(106)
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।
पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13(1409)
सौतिरुवाच। 1-27-14x(107)
तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः।
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14(1410)
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्।
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15(1411)
सौतिरुवाच। 1-27-16x(108)
श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा।
ततो दास्याद्विप्रमोक्षो भविता तव खेचर॥ ॥ 1-27-16(1412)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-27-2 लवणं लवणासुरं पूर्वं ददृशुः॥ 1-27-8 मनःसंहर्षजं मनसः संहर्षाय जातम्॥ 1-27-15 लेलिहाः भोसर्पाः॥ सप्तविंशोऽध्यायः॥ 27 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|